वाचस्पत्यम्
विशिख || पु० विशिष्टा विगता वा शिखा यस्य प्रादि० ब० । १ शरवृक्षे राजनि० । २ वाणे अमरः । ३ तोमरे च मेदि० । ४ शिखारहिते त्रि० । ५ खनित्र्यां ६ नालिकायाम ७ रथ्यायाञ्च स्त्री० मेदि० ।
शब्दकल्पद्रुमः
विशिखः || पुं, (विशिष्टा शिखा यस्य ।)
शर- वृक्षः । इति राजनिर्घण्टः ॥ बाणः । इत्यमरः ॥ (यथा, भागवते । ४ । १७ । १३ । “सन्दधे विशिखं भूमेः क्रुद्धस्त्रिपुरहा यथा ॥”)
तोमरः । इति मेदिनी ॥ (विगता शिखा यस्य ।)
शिखारहिते, त्रि ॥ यथा, —
“विशिखोऽनुपवीती च कृतं कर्म्म न तत् कृतम् ॥” इति स्मृतिः ॥