वाचस्पत्यम्
विशेषविधि || पु० विशेषे विधिः । सामान्यविशेषयोर्मध्ये विशेषगोचरे विधाने यथा ब्राह्मणेभ्यो दधि दीयतां कौण्डिन्थाय तक्रमित्यत्र कौण्डिन्यस्य ब्राह्मणविशेषत्वेन तद्विषये दधिदानापवादेन तक्रदानविधिः । “अल्पः खाद् विषयो यस्य स विशेषविधिर्सतः” व्या० का० ।
शब्दकल्पद्रुमः
विशेषविधिः || पुं, (विशेषो विधिः ।)
अल्पवि- षयकविधिः । यथा, —
“तथा सामान्यकार्य्येभ्यो विशेषकविधिर्ब्बली । बहवो विषया यस्य स सामान्यविधिर्भवेत् । अल्पः स्याद्विषयो यस्य स विशेषविधिर्म्मतः ॥” इति दुर्गादासः ॥ सामान्यविशेषयोर्मध्ये विशेषविधिर्बलषान् । इति स्मृतिः ॥