संस्कृत-शब्दकोशः

विश्रि विश्रुति

विश्रुत

वाचस्पत्यम्

विश्रुत ||‍ पु० वि + श्रु—क्त । १ विख्याते अमरः । २ विशेषेण श्रुते च


शब्दकल्पद्रुमः

विश्रुतः || त्रि (वि + श्रु + क्तः ।)
ख्यातः । इत्य- मरः ॥ (यथा, कलाविलासे । २ । ५६ । “विद्वान् सुभगो मानी विश्रुतकर्म्मा कुलोन्नतः शूरः । वित्तेन भवति सर्व्वो वित्तहीनस्तु सद्गुणोऽप्यगुणः ॥”)
ज्ञातः । संहृष्टः । इति विश्वः ॥



Correction: