संस्कृत-शब्दकोशः

विश्वका विश्वकेतु

विश्वकृत्

वाचस्पत्यम्

विश्वकृत् ||‍ पु० विश्वं करोति कृ—क्विप् । १ विश्वकर्मणि २ परमेश्वरे च


शब्दकल्पद्रुमः

विश्वकृत् || पुं, (विश्वं करोतीति । कृ + क्विप् ।)
विश्वकर्म्मा । इति हेमचन्द्रः ॥ (यथा, महा- भारते । १ । २१२ । १३ । “त्रिषु लोकेषु यत्किञ्चित् भूतं स्थावरजङ्गमम् । समानयद्दर्शनीयं तत्तदत्र स विश्वकृत् ॥” ब्रह्मा । यथा, भागवते । ९ । १४ । ८ । “निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्व- कृत् । तारां स्वभर्त्रे प्रायच्छदन्तर्वत्नीमवैत्पतिः ॥”)



Correction: