संस्कृत-शब्दकोशः

विश्वच् विश्वतस्

विश्वजित्

वाचस्पत्यम्

विश्वजित् ||‍ पु० विश्वं जयति जि—क्विप् । १ विष्णौ २ सर्मस्व दक्षिणे यज्ञभेदे “विश्वजिता यजेत” श्रुतिः । ३ तदधि- कारेण अश्रुतफलत्वे स्वर्गफलकल्पकन्यायभेदे मीमां० ।


शब्दकल्पद्रुमः

विश्वजित् || पुं, (विश्वं जयतीति । जि + क्विप् । तुक् च ।)
यज्ञभेदः । इति जटाधरः ॥ (यथा, रघुः । ५ । १ । “तमध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोषजातम् । उपात्तविद्यो गुरुदक्षिणार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः ॥”)
न्यायविशेषः । यथा । यत्तु फलाश्रुतेर्नित्यत्व- मभिहितं तत् फलाश्रुतौ विश्वजिन्न्यायात् स्वर्गः कल्प्यते । इत्यनेन विरुद्धमिति । स च न्यायो यथा । विश्वजिता यजेत इत्यादि श्रूयते । इत्येकादशीतत्त्वम् ॥ वरुणपाशः । इति केचित् ॥ (अग्निविशेषः । यथा, महाभारते । ३ । २१८ । १६ । “यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति । तं प्राहुरध्यात्मविदो विश्वजिन्नामपावकम् ॥” दानवविशेषः । यथा, तत्रैव । १२ । २२७ । ५१ । “विश्वजित् प्रतिरूपश्च वृषान्तो विष्करो मधुः ॥” दृढरथस्य पुत्त्रः । यथा, हरिवंशे । ३१ । ५१ । “आसीद्दृढरथस्यापि विश्वजिज्जनमेजय ॥” सत्यजित्तनयः । यथा, तत्रैव । २० । १९ । “सत्यजित्तनयस्तस्य विश्वजित्तस्य चात्मजः ॥” विश्वजयिनि, त्रि । यथा, भागवते । ७ । ४ । ७ । “सर्व्वसत्त्वपतीन् जित्वा वशमानीय विश्वजित् । जहार लोकपालानां स्थानानि सह तेजसा ॥”)



Correction: