संस्कृत-शब्दकोशः

विश्वभू विश्वभोजस्

विश्वभेषज

वाचस्पत्यम्

विश्वभेषज ||‍ न० विश्वेषां भेषजम् । रण्ठ्याम् अमरः ।


शब्दकल्पद्रुमः

विश्वभेषजं || क्ली (विश्वेषां भेषजम् ।)
शुण्ठी । इत्यमरः ॥ (यथा, सुश्रुते । १ । ४४ । “विश्वभेषजमृद्वीकाचित्रकैर्मूत्रभावितैः ॥” तथास्य गुणाः । “सस्नेहं दीपनं वृष्यमुष्णं वातकफापहम् । विपाके मधुरं हृद्यं रोचनं विश्वभेषजम् ॥” इति चरके सूत्रस्थाने २७ अध्यायः ॥)



Correction: