वाचस्पत्यम्
विश्वात्मन् || पु० विश्वमात्म यस्य । विष्णौ विष्णुस० ।
शब्दकल्पद्रुमः
विश्वात्मा || [न्] पुं, (विश्वमेव आत्मा यस्य विश्वस्य आत्मा इति वा ।)
विष्णुः । यथा, —
“जन्म कर्म्म च विश्वात्मन्नजस्याकर्त्तुरात्मनः । तिर्य्यङ्नॄषिषु यादःसु तदत्यन्तविडम्बनम् ॥” इति श्रीभागवते १ स्कन्धे ८ अध्यायः ॥ (महादेवः । यथा, कुमारे । ६ । १ । “अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् । दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥”)