वाचस्पत्यम्
विषनाशिनी || स्त्री विषं नाशयति नाशि—णिनि ङीप् । सर्पकङ्कालीलतायां शब्दच० ।
शब्दकल्पद्रुमः
विषनाशिनी || स्त्री (विषं नाशयतीति । नाशि + णिनिः ।)
सर्पकङ्काली । इति शब्दचन्द्रिका ॥ (अथ रास्ना भेदनाइ इति लोके । तत्पर्य्यायो यथा, —
“नाकुली सरसा नागसुगन्धा गन्धनाकुली । नकुलेष्टा भुजङ्गाक्षी सर्य्याङ्गी विषनाशिनी ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)