संस्कृत-शब्दकोशः

विषविधि विषवैरिणी

विषवैद्य

वाचस्पत्यम्

विषवैद्य ||‍ पु० विषे विषापहारे वैद्यश्चिकित्सकः । विषमन्त्र- विद्यायुते अमरः ।


शब्दकल्पद्रुमः

विषवैद्यः || पुं, (विषस्य वैद्यः ।)
विषघ्नमन्त्रवेत्ता । ओझा इति ख्यातः । यथा । विषविद्यां वेत्ति अधीते वा विषवैद्यः ष्णसुपाञ्चालादित्वादन्त्य- पदवृद्धिः । विषस्य वैद्यश्चिकित्सकः इति वा । इति भरतः ॥ तत्पर्य्यायः । जाङ्गुलिकः २ । इत्यमरः ॥ जाङ्गलिकः ३ नरेन्द्रः ४ कौशिकः ५ कथाप्रसङ्गः ६ चक्राटः ७ । इति जटाधरः ॥ व्यालग्राही ८ जाङ्गुलिः ९ जाङ्गलिः १० अहितुण्डिकः ११ व्यालग्राहः १२ गारु- डिकः १३ । इति शब्दरत्नावली ॥



Correction: