वाचस्पत्यम्
विषाणिका || स्त्री विषाणमस्त्यस्याः ठन् । १ मेषशृङ्ग्याम् (गाडराशङा) रत्नमा० । २ कर्कटशृङ्ग्याम् ३ आवर्त्तक्यां ४ सातलायां राजनि० ।
शब्दकल्पद्रुमः
विषाणिका || स्त्री मेषशृङ्गी । इति रत्नमाला ॥ (अस्याः पर्य्यायो यथा, —
“शृङ्गी कर्कटशृङ्गी स्यात् कुलीरञ्च विषाणिका । अजशृङ्गी च रक्ता च कर्कटाख्या च कीर्त्तिता ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
सातला । कर्कटशृङ्गी । आवर्त्तकी । इति राजनिर्घण्टः ॥