संस्कृत-शब्दकोशः

विष्टम्भ विष्टर

विष्टम्भिन्

वाचस्पत्यम्

विष्टम्भिन् ||‍ त्रि० वि + स्तन्भ—णिनि । १ प्रतिबन्धके २ रोगविशेषजनके च ।


शब्दकल्पद्रुमः

विष्टम्भी || [न्] त्रि, (विष्टभ्नातीति । वि + स्तन्भ + णिनिः ।)
विष्टम्भरोगजनकः । यथा, —
“वैदला गुरवो भक्ष्या विष्टम्भिसृष्टमारुताः ॥” इति राजवल्लभः ॥ (यथा च सुश्रुते । १ । ४५ । “प्रायः प्राभातिकं क्षीरं गुरु विष्टम्भि शीत- लम् ॥” विष्टम्भोऽस्यास्तीति । विष्टम्भ + इनिः ।)
विष्टम्भरोगविशिष्टश्च ॥



Correction: