वाचस्पत्यम्
विष्णुकन्द || पु० विष्णुप्रियः कन्दः शा० त० । मूलभेदे राजनि०
शब्दकल्पद्रुमः
विष्णुकन्दः || पुं, (विष्णुप्रियः कन्दः ।)
मूलविशेषः । तत्पर्य्यायः । विष्णुगुप्तः २ सुपुटः ३ बहुसंपुटः ४ जलवासः ५ बृहत्कन्दः ६ दीर्घपत्रः ७ हरि- प्रियः ८ । अस्य गुणाः । मधुरत्वम् । शिशिर- त्वम् । पित्तदाहशोफहरत्वम् । रुच्यत्वम् । सन्तर्पणकारित्वञ्च । इति राजनिर्घण्टः ॥