वाचस्पत्यम्
विष्णुरात || पु० विष्णुना रातः विष्णुर्वा रायाज्जीवनमस्मै रा—क्त त वा । परीक्षिदाख्ये नृपे स हि गर्भस्थ एव अश्वत्थामास्त्रेण दग्धो मृतः सन् प्रसवानन्तरञ्च वि- ष्णुना पुनर्जीवितः तत्कथा मा० आश्व० ७ ० अध्याये । तन्नामनिरुक्तिः भाव० १ । १२ अ० यथा “दैवेनाप्रतिघातेन शुक्रे (वंशे) संस्थामुपेयुषि । रातो- वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना । तस्मान्नाम्ना विष्णुरातो लोके ख्यातं गमिष्यति” ।
शब्दकल्पद्रुमः
विष्णुरातः || पुं, (विष्णुना रातो रक्षितः ।)
परी- क्षिद्राजः । यथा, —
“दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि । रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ तस्मान्नाम्ना विष्णुरातो लोके ख्यातिं गमिष्यति । न सन्देहो महाभाग महाभागवतो महान् ॥” इति श्रीभागवते १ स्कन्धे १२ अध्यायः ॥