संस्कृत-शब्दकोशः

विष्व विष्वक्सेन

विष्वक्

शब्दकल्पद्रुमः

विष्वक् || क्ली विषुवम् । इति शब्दरत्नावली ॥ विष्वं अञ्चति इत्यर्थे त्रिलिङ्गम् ॥ (यथा, भाग- वते । १ । ९ । ३४ । “युधि तुरगरजोविधूम्रविष्वक्- कचलुलितश्रमवार्य्यलङ्कृतास्ये ॥”)


शब्दकल्पद्रुमः

विष्वक् || व्य, परितः । सर्व्वतः । इत्यमरः ॥ (यथा, भागवते । ६ । ९ । १३ । “कृतान्त इव लोकानां युगान्तसमये यथा । विष्वग्विवर्द्धमानं तमिषुमात्रं दिने दिने ॥”)



Correction: