वाचस्पत्यम्
विस || उत्सर्गे दि० पर० सक० सेट् । विणति ष्णवेसीत् ।
वाचस्पत्यम्
विस || न० वि + षो—क । मृणाले अमरः । वादित्वमित्यन्ये
शब्दकल्पद्रुमः
विसं || क्ली मृणालम् । इत्यमरः ॥ (यथा, कला- विलासे । ६ । “नवविसकिसलयकवलन- कषायकलहंसकलरवो यत्र । कमलवनेषु प्रसरति लक्ष्म्या इव नूपुरारावः ॥”)