वाचस्पत्यम्
विसर्पण || न० वि + सृप—ल्युट् । प्रसारे अमरः ।
शब्दकल्पद्रुमः
विसर्पणं || क्ली (वि + सृप + ल्युट् ।)
प्रसरः । इत्यमरः ॥ तन्तुव्रणविटपादेर्विसर्पणम् । इति भरतः ॥ (निक्षेपः । यथा, महाभारते । ७ । ८ । १३ । “शोषणं सागरस्येव मेरोरिव विसर्पणम् । पतनं भास्करस्येव न मृष्ये द्रोणपातनम् ॥”)