वाचस्पत्यम्
विसृमर || त्रि० वि + सृ—क्मरप् । विसरणशीले अमरः ।
शब्दकल्पद्रुमः
विसृमरः || त्रि (विशेषेण सरति तच्छीलः । वि + सृ + “सृघस्यदः क्मरच् ।” ३ । २ । १६० । इति क्मरच् ।) प्रसरणशीलः । इत्यमरः ॥