वाचस्पत्यम्
विस्मित || पु० वि + स्मि—क्त । विस्मययुक्ते ।
शब्दकल्पद्रुमः
विस्मितः || त्रि (वि + स्मि + क्तः ।)
विस्मयान्वितः । यथा, —
“महापाशुपतान् दृष्ट्वा समुत्थाय महेश्वरः । संपरिष्वजत व्यक्तं ते प्रणेमुर्म्महेश्वरम् ॥ ततस्तदद्भुततमं दृष्ट्वा सर्व्वगणेश्वराः । सुविस्मितास्तदा सन्तः किमिदं चिन्तयन्निति ॥ विस्मितांस्तान् गणान् दृष्ट्वा शैलादिर्योगिनांवरः । प्राह प्रहस्य देवेशं शूलपाणिं गणाधिपः ॥ विस्मितामी गणा देव सर्व्व एव महेश्वर । महापाशुपतानां हि यत् त्वयालिङ्गनं कृतम् ॥” इति वामने ६४ अध्यायः ॥