वाचस्पत्यम्
विस्मृति || स्त्री वि + स्मृ—क्तिन् । स्मरणाभावे ।
शब्दकल्पद्रुमः
विस्मृतिः || स्त्री विस्मरणम् । विपूर्ब्बकस्मृधातोः क्तिन् प्रत्ययेन निष्पन्नमिदम् ॥ (यथा, कथा- सरित्सागरे । ४४ । ९६ । “जामातरञ्च स तथा सूर्य्यप्रभमुपाचरत् । यथा तस्य निजा भोगाः सर्व्वे विस्मृति- माययुः ॥”)