वाचस्पत्यम्
विस्रम्भ || पु० वि + स्रन्भ—घञ् । १ विश्वासे २ प्रत्यये ३ परिचये च अमरः ।
शब्दकल्पद्रुमः
विस्रम्भः || पुं, (वि + स्रन्भ + घञ् ।)
विश्वासः । (यथा, उत्तरचरिते । १ । “विस्रम्भादुरसि निपत्य लब्धनिद्राम् ॥”)
प्रणयः । इत्यमरः ॥ प्रणयः परिचयः शृङ्गार- प्रार्थना वा । परिचयप्रार्यनयोः प्रणयः परिकीर्त्तितः ॥ इत्यमरमाला ॥ प्रणयः क्रीडापारतन्त्र्यम् । इति रमानाथः ॥” इति तट्टीकायां भरतः ॥ (यथा, रामायणे । २ । ६० । ७ । “विजनेऽपि वने सीता वासं प्राप्य गृहेष्विव । विस्रम्भं लभतेऽभीता रामे विन्यस्तमानसा ॥”)
केलिकलहः । वधः । इति हेमचन्द्रः ॥