वाचस्पत्यम्
विहार || पु० वि + हृ—घञ् । क्रीडार्थं पादाभ्यां १ गमने अ- मरः २ भ्रमणे ३ स्कन्धे ४ लीलायां ५ वौद्धदेवालये मेदि० ६ वैजन्ते च शब्दमा० ७ विन्दुरेखकखगे पुंस्त्री० शब्दच० ।
शब्दकल्पद्रुमः
विहारः || पुं, (वि + हृ + घञ् ।)
क्रीडार्थं पद्भ्यां गमनम् । तत्पर्य्यायः । परिक्रमः २ । इत्यमरः ॥ (यथा, गीतायाम् । ११ । ४२ । “यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु ॥”)
भ्रमणम् । स्कन्धः । लीला । (यथा, रघुवंशे । ६ । ४८ । “प्रक्षालणाद्वारिविहारकाले ॥”)
सुगतालयः । इति मेदिनी ॥ बिन्दुरेखकपक्षी । इति शब्दचन्द्रिका ॥ वैजयन्तः । इति शब्द- माला ॥