वाचस्पत्यम्
विहृत || न० वि + हृ—भावे क्त । १ विहारे २ स्त्रीणां चेष्टाभेदे हेमचन्द्रे “लीलाविलासो विच्छित्तिर्विव्धोकः किलकिञ्चि तम् । मोट्टायितं कुट्टमितं ललितं विहृतं तथा । विभ्रम- श्चेत्यलङ्काराः स्त्रीणां स्वाभाविका दश” विहृतमित्येव पाठः” सा० द० स्त्रीणां सात्त्विकस्वाभाविकालङ्कार- मध्ये पिकृतमित्येव पठित्वा “वक्तव्यकालेऽप्य- वचो व्राडया विकृतं मतमिति” लक्षितम् विकृतशब्दे ४८९१ पृ० दशितेन उज्ज्वलमणिवाक्येन लक्षितविकृ- तस्य तुल्यार्थत्वात् अतस्तत्र विकृतमित्येव पाठो युक्तः ।
शब्दकल्पद्रुमः
विहृतं || क्ली (वि + हृ + क्तः ।)
स्त्रीणां स्वाभाविक- दशविधालङ्कारान्तर्गतालङ्कारविशेषः । यथा, “लीला विलासो विच्छित्तिर्व्विव्वोकः किल- किञ्चितम् मोट्टायितं कुट्टमितं ललितं विहृतं तथा । विभ्रमश्चेत्यलङ्काराः स्त्रीणां स्वाभाविका दश ॥” इति हेमचन्द्रः ॥