शब्दकल्पद्रुमः
वीक्ष्यं || क्ली (वीक्ष्येत इति । वि + ईक्ष + ण्यत् ।) विस्मयः । दृश्यम् । इति मेदिनी । ये, ५६ ॥
वीक्ष्यः || पुं, (वि + ईक्ष दर्शने + ण्यत् ।) लासकः । घोटकः । इति मेदिनी ॥ दर्शनीये, त्रि ॥