वाचस्पत्यम्
वीजपुष्प || न० वीजात् पुष्पं यस्य । १ मरुपके २ मदनवृक्षे च मेदि० ।
शब्दकल्पद्रुमः
वीजपुष्पं || क्ली (वीजप्रधानं पुष्पं यस्य ।) मरु- वकः । मदनवृक्षः । इति मेदिनी । पे, २९ ॥