वाचस्पत्यम्
वीप्सा || स्त्री वि + आप—सन्—अच ईत्—अ अभ्यासलोपश्च । व्याप्तौ
शब्दकल्पद्रुमः
वीप्सा || स्त्री क्रियागुणद्रव्येर्युगपद्ब्याप्तुमिच्छा । यथा, —
“मुक्तिर्नर्त्तेऽच्युतोपास्तिं भूतं भूतमभि प्रभुः । भक्तो विभुमभि प्राज्ञो गोविन्दमभितिष्ठति ॥” अच्युतोपास्तिं ऋते मुक्तिर्न स्यादित्यर्थः । प्रभुरीश्वरः भूतं भूतं अभि सर्व्वप्राणिषु अस्ति इत्यर्थः । वीप्सायां प्रयुक्तस्य पदस्य द्विर्भावः । इति मुग्धबोधटीकायां दुर्गादासः ॥