वाचस्पत्यम्
वीरहन् || पु० वीरयति शौर्य्यान्वितं करोति वीर + णिच् अच् । वीरी यज्ञाग्निस्तं हतवान् हन—क्विप् । नष्टाग्नो विप्रे अमरः । २ विष्णौ विष्णुस० ।
शब्दकल्पद्रुमः
वीरहा || [न्] पुं, (वीरान् हन्तीति । हन + क्विप् ।)
नष्टाग्निब्राह्मणः । इत्यमरः ॥ यस्या- ग्निहोत्रिणः प्रमादादिना कारणान्तरेण वा अग्निर्नष्टो निर्व्वाणः स्यात् स वीरहोच्यते । वीरयति शौर्य्यं कारयति इति वीर ङ त् क तु शौर्य्ये इत्यस्मात् चुरादि ञिः प्रेरणे ञ्यन्तात् पचाद्यनि वीरो यज्ञाग्निः तं हतवान् इति क्विपि वीरहा । इति भरतः ॥ (यथा, वाज- सनेयसंहितायाम् । ३० । ५ । “नरकाय वीर- हणम् ।” “वीरहणं नष्टाग्निं शूरं वा ।” इति तद्भाष्यम् ॥)
विष्णुः । यथा । वीरहा माधवो मधः । इति विष्णुसहस्रनाम । वीरहन्तरि, त्रि ॥