वाचस्पत्यम्
वृकधूप || पु० वृक्यते वृक—घञर्ये क कर्म० । नानाद्रव्यमिश्रिते दशाङ्गादौ धूपे अमरः । २ सरलद्रवे च (टारपिन्) अमरः
शब्दकल्पद्रुमः
वृकधूपः || पुं, (वृकोऽनेकधूपः एव धूपः । वृकः सरलद्रवस्तत्प्रधानो धूपो वा ।)
नानासुगन्धि- द्रव्यकृतदशाङ्गादिधूपः । तत्पर्य्यायः । कृत्रिम- धूपकः २ । इत्यमरः ॥ वकधूपः ३ । इति तट्टीका ॥ सरलवृक्षरसः । टारपिन् इति भाषा । तत्पपर्य्यायः । पायसः २ श्रीवासः ३ श्रीवेष्टः ४ सरलद्रवः ५ । इत्यमरः ॥