वाचस्पत्यम्
वृक्षभेदिन् || पु० वृक्षं भिनत्ति भिद—णिनि । वृक्षभेदके १ अस्त्रभेदे अमरः । २ टङ्के हेमच० ।
शब्दकल्पद्रुमः
वृक्षभेदी || [न्] पुं, (वृक्षं भिनत्तीति । भिद् + णिनिः ।) वृक्षादनः । इत्यमरः ॥ नेहानि इति भाषा ॥ टङ्कः । इति हेमचन्द्रः ॥