वाचस्पत्यम्
वृक्षाम्ल || न० वृक्षजातमम्लम् । (तेतुल) १ वृक्षजाताऽम्लप्रधाने वृक्षे अमरः । २ चुक्राम्ले च । “वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम् । पक्वन्तु गुरु संग्राहि कटुकं तुवरं लघु । अम्लोष्णं रोचनं रूक्षं दीपनं कफवातकृत् । तृष्णार्शोग्रहणीगुल्मशूलहृद्रोग- जन्तुजित्” भावप्र० ।
शब्दकल्पद्रुमः
वृक्षाम्लं || क्ली (वृक्षस्याम्लम् ।)
महाम्लम् । तेन्तु- लीति ख्यातम् । इति रायमुकुटः ॥ महादा । इति भरतादयः ॥ अम्बलकुटा । इति सार- सुन्दरी ॥ चुका । इति भानुदीक्षितादयः ॥ तत्पर्य्यायः । तिन्तिडीकम् २ चुक्रम् ३ । इत्य- मरः ॥ अम्लशाकम् ४ चुक्राम्लम् ५ तित्तिडी- फलम् ६ शाकाम्लम् ७ अम्लपूरम् ८ पूराम्लम् ९ रक्तपूरकम् १० चुडाम्लम् ११ वीजाम्लम् १२ फलाम्लकम् १३ अम्लवृक्षम् १४ अम्लफलम् १५ रसाम्लम् १६ श्रेष्ठाम्लम् १७ अत्यम्लम् १८ अम्लवीजम् १९ चुक्रफलम् २० । अस्य गुणाः । कटुत्वम् । कषायत्वम् । उष्णत्वम् । कफार्श- स्तृष्णासमीरोदरहृद्गदादिगुल्मातिसारव्रणदोष- नाशित्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वृक्षाम्लमाममम्लोष्णं वातघ्नं कफपित्तलम् । पक्वन्तु गुरु संग्राहि कटुकं तुवरं लघु ॥ अम्लोष्णं रोचनं रूक्षं दीपनं कंफवातकृत् । तृष्णार्शोग्रहणीगुल्मशूलहृद्रोगजन्तुजित् ॥” इति भावप्रकाशः ॥
शब्दकल्पद्रुमः
वृक्षाम्लः || पुं, (वृक्षे अम्लो यस्य ।)
आम्रातकः । इति शब्दचन्द्रिका ॥