संस्कृत-शब्दकोशः

वृत् वृत्तकर्कटी

वृत्त

वाचस्पत्यम्

वृत्त ||‍ न० वृत—भावे क्त । “गुरुपूजा घृणा शौचं सत्यमिन्द्रिय- निग्रहः । प्रवर्त्तनं हितानाञ्च तत्सर्वं वृत्तमुच्यते” इत्युक्ते १ चरित्रभेदे २ पद्यभेदे “पद्यं चतुष्पदो तच्च वृत्तं जाति- रिति द्विधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् । सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा छन्दा० ३ वृत्तौ च । वृत—कर्त्तरि क्त । ४ अतीते ५ दृढे ६ वर्चुले ७ कृतावरणे च त्रि० भरतः । ८ अधीते ९ मृते मेदि० १० जाते च त्रि० ११ कूर्मे पु० राजनि० । १२ रेणुकायां १३ प्रियङ्गौ १४ रोहिण्यां १५ झिञ्झिरिष्टलतायां स्त्री राजनि० । तत्र वर्त्तुलाकारवस्तु यथा “वृत्तानि बाहु- नारङ्ग स्कन्धधम्मिल्लमोदकाः । रथ ङ्गलावकककुत्कुम्भ- कुम्भाण्डकादयः । कर्णपाशभुजापाशाकृष्टचापघटाननम् । मुद्रिकापरिखायोगपट्टहाराङ्गदादयः” कविकल्प० १६ गो- लाकारे क्षेत्रभेदे न० लीला० क्षेत्रशब्दे २४०० पृ० दृश्यम् ।


शब्दकल्पद्रुमः

वृत्तं || क्ली (वृत + क्तः ।)
चरित्रम् । (यथा, कथासरित्सागरे । ३ । १४ । “तत्र तस्थुर्निजान् भर्त्तॄन् ध्यायन्त्यः क्लिष्टवृत्तयः । आपद्यपि सतीवृत्तं किं मुञ्चन्ति कुलस्त्रियः ॥”)
पद्यम् । इत्यमरः ॥ यथा, छन्दोमञ्जर्य्याम् । “पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् । सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा ॥” वृत्तिः । इति मेदिनी ॥ वेदबोधितस्याचारस्य परिपालनम् । इति वृत्ताध्ययनर्द्धिशब्दटीकायां भरतः ॥ (वार्त्ता । यथा, कथासरित्सागरे । ५८ । ११६ । “न मार्गवृत्तमेतन्मे वाच्यं पितृगृहे त्वया ॥” आचारः । यथा, मनौ । ४ । २६० । “अनेन विप्रो वृत्तेन वर्त्तयन् वेदशास्त्रवित् । अपेतकल्मषो नित्यं ब्रह्मलोके महीयते ॥”)


शब्दकल्पद्रुमः

वृत्तः || त्रि (वृत् + क्तः ।)
अतीतः । (यथा, रामायणे । २ । ९० । ७ । “जानन् दशरथं वृत्तं न राजानमुदाहवत् ॥” “वृत्तमतीतम् ।” इति तट्टीका ॥)
दृढः । वर्त्तुलः । (यथा, भागवते । ४ । २५ । २४ । “स्तनौ व्यञ्जितकैशोरौ समवृत्तौ निरन्तरौ ॥”)
कृतावरणः । इत्यमरटीका ॥ अधीतः । मृतः । इति मेदिनी ॥ (निष्पन्नः । यथा, रघुः । ३ । २८ । “स वृत्तचूडश्चलकाकपक्षकै- रमात्यपुत्त्रैः सवयोभिरन्वितः ॥” जातः । यथा, रघुवंशे । २ । ५८ । “सम्बन्धमाभाषणपूर्व्वमाहु- र्वृत्तः स नौ सङ्गतयोर्व्वनान्ते ॥”)
अथ वृत्तवस्तूनि । यथा, —
“वृत्तानि बाहुनारङ्गस्कन्धधम्मिल्लमोदकाः । रथाङ्गलावकककुत्कुम्भिकुम्भाण्डकादयः ॥ कर्णपाशभुजापाशाकृष्टचापघटाननम् । मुद्रिकापरिखायोगपट्टहारस्रगादयः ॥” * ॥
संपूर्णगर्भवृत्तानि यथा, —
“संपूर्णगर्भवित्तानि मुखपद्मेन्दुदर्पणाः । चक्रावहट्टतिलकमृदङ्गपुटशायकाः ॥ आवर्त्तः कमठो लूतागृहं छत्रमपूपकम् । आलवालमहीजालचर्म्मकं सानकादयः ॥” इति कविकल्पलतायाम् २ श्लेषस्तवके प्रकीर्णं नामं ३ कुसुमम् ॥


शब्दकल्पद्रुमः

वृत्तः || पुं, (स्वल्पो वृत्तः । स्वल्पार्थे कन् ।)
कूर्म्मः । इति राजनिर्घण्टः ॥ (नागविशेषः । यथा, महाभारते । १ । ३५ । १० । “वृत्तसम्बर्त्तकौ नागौ द्वौ च पद्माविति श्रुतौ ॥”)



Correction: