संस्कृत-शब्दकोशः

वृत्तवीज वृत्ता

वृत्तस्थ

वाचस्पत्यम्

वृत्तस्थ ||‍ त्रि० वृत्ते गुरुपूजादौ चरित्रे तिष्ठति स्था—क । वृत्तशब्दोकगुरुपूजादिचारेत्ररते ।


शब्दकल्पद्रुमः

वृत्तस्थः || त्रि (वृत्त + स्था + कः ।)
वृत्ते तिष्ठति यः । यथा, मनुः । “तुरीयो ब्रह्महत्यायाः क्षत्त्रियस्य वधे स्मृतः । वैश्येऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः ॥” वृत्तं यथा, —
“गुरुपूजा घृणा शौचं सत्यमिन्द्रियनिग्रहः । प्रवर्त्तनं हितानाञ्च तत् सर्व्वं वृत्तमुच्यते ॥” इति गोपालपञ्चाननकृतस्मृतिसंग्रहः ॥



Correction: