वाचस्पत्यम्
वृत्तिस्थ || त्रि० वृत्तौ तिष्ठति स्था—क । १ सत्सर्मानुष्ठायिनि २ सरटे पु० स्त्री राजनि० स्त्रियां ङीष् ।
शब्दकल्पद्रुमः
वृत्तिस्थः || पुं, (वृत्तये तिष्ठतीति । स्था + कः ।) सरटः इति राजनिर्घण्टः ॥ वृत्तौ तिष्ठति, त्रि ॥