वाचस्पत्यम्
वृत्रहन् || पु० वृत्तं हतवान् हन—क्विप् । इन्द्रे अमरः ।
शब्दकल्पद्रुमः
वृत्रहा || [न्] पुं, (वृत्रं हतवान् । हन् + “ब्रह्म- भ्रूणवृत्रेषु क्विप् ।” ३ । २ । ८७ । इति क्विप् ।)
इन्द्रः । इत्यमरः ॥ (यथा, भागवते । ९ । ७ । १९ । “अभ्येत्याभ्येत्य स्थविरो विप्रो भूत्वाह वृत्रहा ॥” यथा च ऋग्वेदे । १ । १०६ । ६ । “इन्द्रं कुत्सः वृत्रहणं शचीपतिम् ॥” “वृत्रहणं वृत्राणां शत्रूणां हन्तारम् ।” इति तद्भाष्ये सायणः ॥)