वाचस्पत्यम्
वृद्धदारक || पु० वृद्धं दारयति दृ—णिच्—ण्वुल् । वीरताडवृक्षे अण् । वृद्धदार तत्रार्थे राजवल्लभः । “रसायनो वृद्ध- दारः शोथवातामवातजित्” ।
शब्दकल्पद्रुमः
वृद्धदारकः || पुं, (वृद्धो दारको बालक इव यस्मात् ।)
वीरताडकवृक्षः । इति भरतः ॥ विद्धडक् इति वीजताडका इति च वङ्गभाषा । विधारा इति हिन्दीभाषा । तत्पर्य्यायः । ऋक्षगन्धा २ छग- लान्त्री ७ आवेगी ४ जुङ्गः ५ । इत्यमरः ॥ ऋष्यगन्धा ६ छगलाङ्घ्री ७ छगला ८ अन्त्री ९ जुङ्गा १० । इति तट्टीका ॥ छगली ११ जुङ्गकः १२ श्यामः १३ । इति जटाधरः ॥ वृष्यगन्धा १४ छगलान्त्रिका १५ । इति शब्दरत्नावली ॥ दीघवालुका १६ छागलान्त्रिका १७ वृद्धः १८ कोठरपुष्पी १९ अजान्त्री २० वृद्धदारु २१ । ग्रन्थान्तरे कोठरपुष्पीस्थाने वृद्धकोटरपुष्पीति पाठः । अस्य गुणाः । गौल्यत्वम् । पिच्छिल- त्वम् । कफवातकासामदोषनाशित्वम् । बल्य- त्वञ्च । इति राजनिर्घण्टः ॥ अन्यच्च । “रसायनो वृद्धदारः शोथवातामवातजित् ।” इति राजवल्लभः ॥