वाचस्पत्यम्
वृद्धप्रपितामह || पु० वृद्धः प्रपितामहात् राज० । प्रविता- महजनके ।
शब्दकल्पद्रुमः
वृद्धप्रपितामहः || पुं, (प्रपितामहाद्वृद्धः ।)
प्रपिता- महतातः । इति शब्दरत्नावली ॥ तत्र कन्यायाः सपिण्डता नास्ति । यथा । तेनात्मपञ्चमे वृद्ध- प्रपितामहे सापिण्ड्यं निवर्त्तते इति प्रतिपादि- तम् । अतएव प्रपितामहभ्रात्रा तत्सन्ततिभिः सह सापिण्ड्याभावात् कन्याजननमरणयोस्तेषां सपिण्डाशैचं नास्ति किन्तु समानोदकनिमित्त- मेवाशौचमिति । इति शुद्धितत्त्वम् ॥