संस्कृत-शब्दकोशः

वृद्धविभीतक वृद्धसङ्घ

वृद्धश्रवस्

वाचस्पत्यम्

वृद्धश्रवस् ||‍ पु० वृद्धेभ्यः शृणोति श्रु—असुन्, वृद्धेषु श्रवो यशा यस्येति वा । इन्द्रे अमरः ।


शब्दकल्पद्रुमः

वृद्धश्रवाः || [स्] पुं, (वृद्धात् बृहस्पतेः शृणोतीति । श्रु + असुन् । “वृद्धेभ्यः शृणोतीति वृद्धश्रवाः ।” इत्युज्ज्वलदत्तः । ४ । २२६ । “वृद्धं प्रभूतं श्रवः श्रवणं स्तोत्रं हविर्लक्षणमन्नं वा यस्य ।” इति ऋग्भाष्ये सायणः । १ । ८९ । ६ । “वृद्धं श्रवो धनं कीर्त्तिर्वा यस्य ।” इति वेददीपे महीधरः । १० । ९ ।)
इन्द्रः । इत्यमरः ॥



Correction: