वाचस्पत्यम्
वृद्धा || स्त्री वृध—क्त । १ गतयौवनायां स्त्रियाम् । २ अङ्गु शब्दच० । ३ महाश्रावणिकायां राजनि० । स्त्रीणां वयःकालविभागो यथा “आषोडशाद् भवद्वाला तरुणी त्रिंशता मता । पञ्च पञ्चाशतः प्रौढा वृद्धा भवति तत्परम्” इति कालि- दासः । “बालेति गीयते नारी यावद्वर्षाणि षोडश । ततस्तु तरुणी ज्ञेया द्वात्रिंशद्वत्सरावधि । तदूर्द्ध्वमधि- रुढा स्यात् पञ्चाशद्वत्सरावधि । वृद्धा तत्परको ज्ञेया सुरतोत्सववर्जिता” भावप्र० । तस्याः सम्भोगे दोषो यथा “बाला तु प्राणदा प्रोक्ता युवती प्राणहारिणी । घ्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् । निदाघशरदो- र्बाला प्रौढा वर्र्षावसन्तयोः । हेमन्ते शिशिरे योग्या न वृद्ध्वा क्वापि शस्यते । नार्वाक् तु षोडशाद्वर्षात् सप्तत्याः परतो न च । आयुष्कामो नरः स्त्रीभिः संभोगं कर्तु- मर्हति । पञ्चपञ्चाशतो नारी सप्तसप्ततिकः पुमान् । द्वावेतौ न प्रसूयेते प्रसूयेते विपर्य्ययात्” राजवल्लभः । “शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथनं निद्रा सद्यः प्राणहराणि षट्” चाणक्यनीतिसारः
शब्दकल्पद्रुमः
वृद्धा || स्त्री (वृद्ध + टाप् ।)
गतयौवना । वुडी इति भाषा । तत्पर्य्यायः । पलिक्नी २ । इत्य- मरः ॥ पलिता ३ । इति भरतः ॥ स्थविरा ४ निष्कला ५ जरती ६ गतार्त्तवा ७ । इति राजनिर्घण्टः ॥ तदवस्थाकालो यथा, —
“आषोडशाद्भवेद्बाला तरुणी त्रिंशता मता । पञ्चपञ्चाशतः प्रौढा वृद्धा भवति तत्परम् ॥” इति कालिदासः ॥ * ॥
अपि च । “बालेति गीयते नारी यावद्वर्षाणि षोडश । ततस्तु तरुणी ज्ञेया द्बात्रिंशद्बत्सरावधि ॥ तदूर्द्ध्वमधिरूढा स्यात् पञ्चाशद्वत्सरावधि । वृद्धा तत्परतो ज्ञेया सुरतोत्सवर्ज्जिता ॥” इति भावप्रकाशः ॥ * ॥
तस्याः सम्भोगे दोषो यथा, —
“बाला तु प्राणदा प्रोक्ता युवती प्राणहारिणी । प्रौढा करोति वृद्धत्वं वृद्धा मरणमादिशेत् ॥ निदाघशरदोर्ब्बाला प्रौढा वर्षावसन्तयोः । हेमन्ते शिशिरे योग्या न वृद्धा क्वापि शस्यते ॥ नार्त्तवे षोडशाद्वर्षात् सप्तत्याः परतो न च । आयुष्कामो नरः स्त्रीभिः संयोगं कर्त्तुमर्हति ॥ पञ्चपञ्चाशतो नारी सप्तसप्ततितः पुमान् । द्वावेतौ न प्रसूयेते प्रसूयेते विपर्य्ययात् ॥” इति राजवल्लभः ॥ * ॥
“शुष्कं मांसं स्त्रियो वृद्धा बालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ॥” इति चाणक्यम् ॥ * ॥
अङ्गुष्ठः । इति शब्दरत्नावली ॥ महाश्राव- णिका । इति राजनिर्घण्टः ॥