वाचस्पत्यम्
वृद्धोक्ष || पु० कर्म० अच् समा० । जरद्गवे अमरः ।
शब्दकल्पद्रुमः
वृद्धोक्षः || पुं, (वृद्धश्चासौ उक्षा चेति । “अचतु- रेत्यादि ।” ५ । ५ । ७७ । इत्यादिना अच् प्रत्यबः ।)
वृद्धवृषः । तत्पर्य्यायः । जरद्गवः २ । इत्यमरः ॥ (यथा, कुमारसम्भवे । ५ । ७० । “विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥”)