संस्कृत-शब्दकोशः

वृद्ध्याजीव वृधसान

वृध

वाचस्पत्यम्

वृध ||‍ दीप्तौ चु० उभ० अक० सेट् । वर्द्धयति ते अवीवृधत् त अववर्द्धत् त ।


वाचस्पत्यम्

वृध ||‍ वृद्धौ भ्वा० आत्म० लुङि ऌटि ऌङि च उभ० अक० सेट वृता० । वर्द्धते ऋदित् अवृधत् अवर्द्धिष्ट वृतवत् वतर्स्यति वर्द्धिष्यते । उदित् क्त्वा वेट् ।


शब्दकल्पद्रुमः

वृध || उ ङ व ऌ वृद्धौ । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् । क्त्वावेट् ।)
उ, वर्द्धित्वा वृद्ध्वा । ङ, वर्द्धते जनः । व, वर्त्स्यति विवृत्सति । ऌ, अवृधत् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृध || क दीप्तौ । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।)
क, वर्द्धयति । इति दुर्गा- दासः ॥



Correction: