संस्कृत-शब्दकोशः

वृन्तिता वृन्दा

वृन्द

वाचस्पत्यम्

वृन्द ||‍ न० वृत्यते वृणुते वा—वृण—वृत वा दन् नि० । १ समूहे अमरः । २ दशार्वुदसंख्यायां ज्योति० ३ केदारकन्यायां ४ तुलस्यां स्त्री शब्दच० । ५ राधिकायां स्त्री वृन्दावनम् ।


शब्दकल्पद्रुमः

वृन्दं || क्ली (वृञ् + “अब्दादयश्चेति ।” उणा० ४ ९८ । इति दन् नुम् गुणाभावश्च निपात्यते ।)
समूहः । इत्यमरः ॥ (यथा, भागवते । ३ । २८ । ३० । “भृत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ॥”)


शब्दकल्पद्रुमः

वृन्दः || पुं, दशार्व्वुदः । शतकोटिरिति यावत् । इति ज्योतिषम् ॥ अस्य नामान्तरं महार्व्वुदः ॥



Correction: