वाचस्पत्यम्
वृश्चिकाली || स्त्री वृश्चिक इवालति पर्य्याप्नोति स्पर्शने वेदनायै अच् गौरा० ङीष् । (विछाती) क्षुपभेदे रत्नमा० ।
शब्दकल्पद्रुमः
वृश्चिकाली || स्त्री (वृश्चिकानामालिर्यत्र ।)
क्षुप- विशेषः । विछाटी इति भाषा । तत्पर्य्यायः । वृश्चिपत्री २ विषघ्नी ३ नागदन्तिका ४ सर्प- दंष्ट्रा ५ अमरा ६ काली ७ उष्ट्रधूसर- पुच्छिका ८ । इति रत्नमाला ॥ विषाणी ९ नेत्ररोगहा १० उष्ट्रिका ११ अलिपर्णी १२ दक्षिणावर्त्तकी १३ कालिका १४ आगमा- वर्त्ता १५ देवलाङ्गूलिका १६ करभी १७ भूरि- दुग्धा १८ कर्कशा १९ स्वर्णदा २० युग्मफला २१ क्षीरविषाणिका २२ भासुरपुष्पा २३ । अस्या गुणाः । कटुत्वम् । तिक्तत्वम् । हृद्वक्त्रशुद्धि- कारित्वम् । रक्तपित्तविबन्धारोचकापहत्वम् । बल्यत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “वृश्चिकाली विषघ्नी तु कासमारुतनाशिनी ॥” इति राजवल्लभः ॥