संस्कृत-शब्दकोशः

वृश्चीर वृषकर्णी

वृष

वाचस्पत्यम्

वृष ||‍ पु० वृष—क । १ वृषभे पुङ्गवे अमरः २ मेषादितो द्वितीये राशौ ज्ये० त० । ३ पुरुषभेदे ४ एकादशमनुकालीने ५ इन्द्रे ६ धर्मे गरुडपु० ८१ अ० । ७ शृङ्गिमात्रे ८ मूषिके ९ शुक्र- युक्ते १० वास्तुस्थानभेदे ११ वासकवृक्षे मेदि० । १२ शत्रौ जटा० । १३ कामे १४ बलयुक्ते त्रि० विश्वः १५ ऋषभनामौ- षधौ राजनि० । १६ मयूरपिच्छे १७ श्रीकृष्णे च त्रिका० । वृषराशिश्च २१६०० कलात्मकस्य राशिचक्रस्य १८०० कलो- परि १८०० कलात्मकः । कृत्तिकाशेषत्रिपादरोहिणीमृ- गाद्यार्द्धात्मकः स च सौम्यः अङ्गना समः स्थिरः पुष्क रसंज्ञः चतुष्पाद् निशासु ग्राम्यः दिवारण्यः ह्रस्वः दक्षिणदिगीशः रात्रिसंज्ञः पृष्ठोदयः शीतस्वभावः वातप्रकृतिः सुन्दरभूस्वामी श्वेतवर्णः वैश्यजातिः महा० शब्दकरः मध्यमस्त्रोसङ्गः मध्यमप्रजश्च” वृहज्जा० मूलं दृश्यम् । पुरुषविशेषलक्षणञ्च “बहुगुणबहु- बन्धः शीघ्रकामो नताङ्गः सकलरुचिरदेहः सत्यवादी वृषो ना” रतिम० उक्तम् । १८ अरिष्टासुरे स हि वृषाकारेण वृन्दावने गोहनने प्रवृत्तः कृष्णेन हतः । तत्- कथा हरिव० ७८ अ० । वृषस्य शुभाशुभलक्षणं गोलक्ष- णशब्दे २७१८ पृष्ठादौ दर्शितम् । वृषादि० आद्युदात्तः ।


वाचस्पत्यम्

वृष ||‍ प्रजननसामर्थ्ये ऐश्वर्य्ये चुरा० आत्म० सक० सेट् । वर्ष- यते अवीवृषत—अववर्षत ।


वाचस्पत्यम्

वृष ||‍ सेचने सक० भ्वा० पर० प्रजननसामर्थ्ये ऐश्वर्य्ये अक० सेट् । वर्षात अवर्षीत् । उदित् क्त्वा वेट् ।


शब्दकल्पद्रुमः

वृष || उ सेचने । प्रजनैश्ये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-अक० च-सेट् । क्त्वावेट् ।)
उ, वर्षित्वा वृष्ट्वा । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृष || क ङ प्रजनैश्ये । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-अक०-सेट् ।)
क ङ, वर्षयते । अस्य पञ्चमस्वरानुबन्धो लेखकश्रमकृतः सुधीभिर्हेयः । ञ्यन्तेभ्यः सर्व्वत्र नित्येम् साम्प्र- दायिकत्वात् । न च प्राचामनुरोधात् पाठ्य इति वाच्यम् । तर्हि अनृक् व्यक्तौ । क ङ वनृ वञ्चने । वृत क ङ दीप्तौ । दिव क ङ परि- कूजने । कदि वर्द्धे । वृष क ङ शक्तिबन्धे । जसक् वधेऽनादरे । इत्येषामष्टानामपि पञ्चम- स्वरानुबन्धापत्तेः वस्तुतस्तु एषां पञ्चमस्वरानु- बन्धः प्राचीनपठितोऽप्यनर्थः । अतएव रमा- नाथोऽपि एषामुदनुबन्धः पूर्ब्बपठितधातवो- ऽर्थान्तरेषु चुरादयः स्युर्नत्वेते पृथग्धातव इति ज्ञापनार्थ इत्याह । प्रजनो गर्भग्रहणं ऐश्यमैश्वर्य्यम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वृषं || क्ली (वृष ऐश्ये + कः ।)
वर्हम् । इति शब्द- माला ॥


शब्दकल्पद्रुमः

वृषः || पुं, (वर्षति सिञ्चति रेत इति । वृष सेचने + कः ।)
पुरुषगवः । एँडे इति भाषा । तत्- र्य्यायः । उक्षा २ भद्रः ३ वलीवर्द्दः ४ ऋष भः ५ वृषभः ६ अनड्वान् ७ सौरभेयः ८ गौः ९ । इत्यमरः ॥ शृङ्गी १० ककुद्वान् ११ । इति शब्दरत्नावली ॥ शिखी १२ गन्धमैथुनः १३ पुङ्गवः १४ । इति जटाधरः ॥ * ॥
अस्य लक्षणादि यथा, —
“अश्वेभलक्षणे ह्युक्त्वा वक्ष्यन्तेऽन्ये चतुष्पदाः । गावः कृतयुगे सृष्टाः स्वयमेव स्वयम्भुवा । ब्रह्मक्षत्त्रियविट्शूद्रजातिभेदाश्चतुर्व्विधाः ॥ शुक्लाङ्गाः शुचयोऽक्रुद्धा मृदवः शुद्धचेतसः । अल्पाशिनो बहुबला वृषभा ब्रह्मजातयः ॥ द्वयोर्लक्षणसम्बन्धात् द्विजातिर्व्वृषभो भवेत् । त्रिलक्षणसमावेशात् त्रिगुणः स वृषाधमः ॥ पीताङ्गा मृदवः शुद्धा अक्रोधा भारवाहिनः । यदृच्छाभोजिनः क्षीणा वृषभा वैश्यजातयः ॥ कृष्णाङ्गाः क्रूरहृदया अपवित्राः सदाशिनः । वृहद्वृषणरोषाश्च वृषभाः शूद्रजातयः ॥ द्वयोर्लक्षणसम्पर्कात् द्विजातिर्व्वृषभो भवेत् ॥” * ॥
वात्स्यस्तु । “पृथ्वीतले समुत्पन्ना गजाश्वा ये चतुष्पदाः । गुणत्रयविभेदेन तेषां भेदत्रयं भवेत् । एतन्मतानुसारेण भोजः प्राह महीपतिः ॥ ये शुक्लाः शुचयः शुद्धा भृशं भारवहा अपि । बह्वाशिनः स्वल्परोषास्ते वृषाः सात्त्विका मताः ॥ व्यक्ताव्यक्तरुषः शुद्धा दृढा भारवहाः शुभाः । बह्वाशिनो बहुबलास्ते वृषा राजसा मताः ॥ विवर्णा विकृताङ्गाश्च निर्ब्बला स्वल्पभोजिनः । अपवित्रा बृहद्रोषास्ते वृषास्तामसा मताः ॥ लक्षणद्वयसम्बन्धात् द्विगुणो वृषभो भवेत् । त्रिलक्षणसमावेशात् त्रिगुणः स वृषाधमः ॥” * ॥
अथ गुणाः । “नीलः शुभो ध्वजो वामः क्षेमो भद्रः शिवः स्थिरः । भोजदेवेन लिखिता इत्यष्टौ वृषभे गुणाः ॥” तद्यथा, —
“श्वेतादन्यतरो वर्णः श्वेतः खुरविषाणयोः । ललाटपुच्छयोः श्वेतः स नीलः शुभमावहेत् ॥ १ ॥ यो हृष्टपुष्टो रम्यात्मा सुविभक्ततनुः शुभः । कुरुते धनवृद्धिं स दोषैर्मुक्तो यदा त्वयम् ॥ २ ॥ वर्णस्तु सहजः पुच्छो रम्यश्च ध्वज उच्यते । भर्त्तुः कुलं धनं धान्यं विवर्द्धयति निश्चयम् ॥ ३ ॥ पूर्ब्बार्द्धे चोन्नतो यस्तु परार्द्धेचैव नीचकः । निर्द्दोषो वाम इत्येष कुरुते रिपुसंक्षयम् ॥ ४ ॥ चन्द्रकं दृश्यते यस्य ललाटे देवनिर्म्मितम् । क्षेमनामा वृषः कुर्य्याद् धनधान्यविवर्द्धनम् ॥ ५ ॥ आवर्त्ताश्च शुभा यस्य शुक्तयश्चापि वा शुभाः । भद्रनामा वृषः कुर्य्यात् भर्त्तुः सर्व्वार्थसाधनम् ॥ ६ ॥ आवर्त्तशुक्तिविज्ञानं हयेषु वृषभेष्वपि । पादाः सर्व्वेसिता यस्य पुच्छभालौ सितौ तथा ॥ महोक्षा चायते नेत्रे कर्णौ चातिलघू स्थिरौ । मुष्कयोः कृष्णता चैव शृङ्गे चातिशुभे दृढे ॥ तनुरोमा महावेगः स्निग्धगम्भीरनिस्वनः । शिव इत्येव कथितः शिवं प्रकुरुते ध्रुवम् ॥ ७ ॥ चरणाः पञ्जराः स्थूलाः शिरः शुभ्रं भवेत्तनुः । आपुच्छादायता शुभ्रा रेखा मस्तकगामिनी ॥ रक्तताल्वोष्ठजिह्वस्तु स्थिरः स्थैर्य्यकरः श्रियाः । नाल्पपुण्येन लभ्योऽयं वृषभः शुभलक्षणः ॥” ८ ॥ गर्गस्तु । “महत्त्वं तनुलोमत्वं पुष्टता भारवाहिता । कुमारकत्वमित्येते वृषभाणां गुणा मताः ॥” * ॥
अथ दोषाः । “व्यङ्गो विवर्णो विषमः श्वित्री धूम्रश्चलः खरः । एते सप्त महादोषा वृषभाणामुदीरिताः ॥ विषाणौ विषमौ यस्य खुराश्च विषमास्तथा । नेत्रकान्तेऽथवा गात्रे पञ्जरे वैकृतं भवेत् । व्यङ्ग इत्येष कथितो धनधान्यविनाशनः ॥ १ ॥ पूर्ब्बार्द्ध मन्यवर्णन्तु परार्द्धञ्चान्यवर्णकम् । पृष्ठं क्रोडो विवर्णो वा विवर्णः कुलनाशनः ॥ २ ॥ परार्द्धमुन्नतं यस्य पूर्ब्बार्द्धञ्चातिनीचकम् । गच्छतश्चरणौ लग्नौ शब्दायेते खरस्वरः । विषमो नाम वृषभः सम्पत्तिक्षयकारकः ॥ ३ ॥ हिमकुन्देन्दुसङ्काशा गात्रेषु लोमबिन्दवः । श्वित्री नाम महादोषो दूरतस्तं परित्यजेत् ॥ ४ ॥ शृङ्गाग्रे दीपिकाकारं ज्वलते केकरे दृशौ । कपिलः पुच्छभागश्चेत् स धूम्रो मृत्युमावहेत् ॥ ५ दन्तशृङ्गखुरादीनां यद्येकोऽपि चलेत् स्वयम् । मुष्को वा चलते यस्य स चलः कुलनाशनः ॥ ६ ॥ आवर्त्ताः शुक्तयो रेखा विषमाश्च विसंस्थिताः । न्यूनाधिकाः पञ्जरास्तु खुरास्तु विषमास्तथा ॥ गुदान्मेढ्रान्तरे यावद्रेखा व्यक्तेव दृश्यते । विस्तृते विषमे घोणे जिह्वा चैवासिता भवेत् । स खरो दूरतस्त्याज्यो भर्त्तुः सर्व्वार्थनाशनः ॥ ७ ॥ स्वल्पता दीर्घरोमत्वं क्षीणता भारवाहिता । व्यङ्गत्वं मारकत्वञ्च वृषदोषा उदाहृताः ॥ * ॥
ब्रह्मादिजातिभेदेन चत्वारो ये वृषा मताः । चतुर्व्विधानां लोकानां त एव स्युः शुभावहाः ॥ यो मोहादन्यजातीयं कुरुते वृषभं नरः । तस्य नश्यन्ति वित्तानि धनमायुः कुलं बलम् ॥ वातपित्तकफोद्रेका व्याधयो ये वृषे मताः । तेषामुपशमः कार्य्यो यथास्वं विधिना बुधैः ॥” इति वृषपरीक्षा । इति भोजराजकृतयुक्ति- कल्पतरुः ॥ * ॥
अस्य लक्षणं उत्सर्गविधिश्च यथा, — मनुरुवाच । “भगवन् श्रोतुमिच्छामि वृषभस्य च लक्षणम् । वृषोत्सर्गविधिञ्चैव तथा पुण्यफलं महत् ॥ मत्स्य उवाच । धेनुमादौ परीक्षेत सुशीलां लक्षणान्विताम् । अव्यङ्गामपरिक्लिष्टां जीववत्सामरोगिणीम् ॥ स्निग्धवर्णां स्निग्धखुरां स्निग्धशृङ्गां तथैव च । मनोहराकृतिं सौम्यां सुप्रमाणामनुद्धताम् ॥ आवर्त्तैर्द्दक्षिणावर्त्तैर्मुक्ता दक्षिणतश्च सा । वामावर्त्तैर्वामतश्च विस्तीर्णजघना तथा ॥ मृदुसंहतताम्रोष्ठीं रक्तजिह्वां सुपूजिताम् । अश्यावदीर्घस्फुटिता रक्तजिह्वा तथा च या ॥ अस्रावाविलनेत्रा च सफैरविरलैर्दृढैः । वैदूर्य्यमधुवर्णैश्च जलवुद्वुदसन्निभैः ॥ रक्तस्निग्धैश्च नयनैस्तथा रक्तकनीनिकैः । सप्त चतुर्द्दश दन्तास्तथा चाश्यामतालुका ॥ षडुन्नता सुपार्श्वोरू पृथु पञ्च समायताः । अष्टायतशिरोग्रीवाधराजन्मसुलक्षणा ॥ मनुरुवाच । षडुन्नताः के भगवन् ! के च पञ्च समायताः । आयताश्च तथैवाष्टौ धेनूनां के शुभावहाः ॥ मत्स्य उवाच । उरः पृष्ठं शिरः कुक्षिः श्रोणी च वसुधाधिप । षडुन्नतानि धेनूनां पूजयन्ति विचक्षणाः ॥ कर्णनेत्रललाटश्च पञ्च भास्करनन्दन ! । समायतानि शस्यन्ते पुच्छं सास्ना च सक्थिनी ॥ चत्वारश्च समा राजन्नेवमष्टौ मनीषिभिः । शिरोग्रीवायतास्त्वेते भूमिपाल स्मृता दश ॥ तस्याः सुतं परीक्षेत वृषभं लक्षणान्वितम् । उन्नतस्कन्धककुदमृजुलाङ्गूलकम्बलम् ॥ महाकटितटस्कन्धं वैदूर्य्यमणिलोचनम् । प्रबालगर्भशृङ्गाग्रं सुदीर्घपृथुबालधिम् ॥ नवाष्टदशसंख्यैर्वा तीक्ष्णाग्रैर्द्दशनैः शुभैः । मल्लिकाक्षश्च मोक्तव्यो गृहेऽपि धनधान्यदः ॥ वर्णतस्ताम्रकपिलो ब्राह्मणस्य प्रशस्यते । श्वेतो रक्तश्च कृष्णश्च गौरः पाटल एव च ॥ भद्रिणस्ताम्रपृष्ठश्च सबलः पञ्चकालकः । पृथुकर्णो महास्कन्धः श्लक्ष्णरोमा च यो भवेत् ॥ रक्ताक्षः कपिलो यश्च रक्तशृङ्गतलो भवेत् ॥ श्वेतोदरः कृष्णपृष्ठो ब्राह्मणस्य प्रशस्यते ॥ स्निग्धरक्तेन वद्धेन क्षत्त्रियस्य प्रशस्यते । काञ्चनाभेन वैश्यस्य कृष्णेनाप्यन्त्यजन्मनः ॥ यस्य प्रागायते शृङ्गे भ्रूमुखाभिमुखे सदा । सर्व्वेवामेव वर्णानां स च सर्व्वार्थसाधकः ॥ मार्ज्जारपादः कपिलो धन्यः कपिलपिङ्गलः । श्वेतोमार्ज्जारपादस्तु धन्यो मणिनिभेक्षणः ॥ करटः पिङ्गलश्चैव श्वेतपादस्तथैव च । सर्व्वपादशिरो यश्च द्बिपादश्वेत एव च ॥ कपिञ्जलनिभो धन्यस्तथा तित्तिरिसन्निभः । आकर्णमूलात् श्वेतस्तु मुखं यस्य प्रकाशते ॥ नन्दीमुखः स विज्ञेयो रक्तवर्णो विशेषतः । श्वेतञ्च जठरं यस्य भवेत् पृष्ठञ्च गोपतेः ॥ ऋषभः स समुद्राक्षः सततं कुलवर्द्धनः । मल्लिकापुष्पचित्रस्तु धन्यो भवति पुङ्गवः ॥ कमलैर्मण्डलैश्चापि चित्रो भवति भाग्यदः । अतसीपुष्पवर्णस्तु तथा धन्यतरः स्मृतः ॥ * ॥
एते धन्यास्तथाधन्यान् कीर्त्तयिष्यामि तेऽनघ । कष्णताल्वोष्ठदशना रूक्षशृङ्गशफाश्च ये ॥ अव्यक्तवर्णा ह्रस्वाश्च व्याघ्रभस्मनिभाश्च ये । ध्माङ्क्षगृध्रसवर्णाश्च तथा मूषिकसन्निभाः ॥ कुण्ठाः काणास्तथा खञ्जाः केकराक्षास्तथैव च । विषमश्वेतपादाश्च उद्भ्रान्तनयनास्तथा ॥ नैते वृषाः प्रमोक्तव्या न च धार्य्यास्तथा गृहे । मोक्तव्यानाञ्च धार्य्याणां भूयो वक्ष्यामि लक्ष- णम् ॥ * ॥
स्वस्तिकाकारशृङ्गाश्च मेधौघसदृशस्वनाः । महाप्रमाणाश्च तथा मत्तमातङ्गगामिनः ॥ महोरस्का महोत्साहा महाबलपराक्रमाः । शिरः कर्णौ ललाटञ्च बालधिश्चरणानि च ॥ नेत्रे पार्श्वे च कृष्णानि शस्यन्ते चन्द्रभांसि च । श्वेतान्येतानि शस्यन्ते कृष्णस्य तु विशेषतः ॥ भूमौ कर्षति लाङ्गूलं प्रलम्बस्थूलबालधिः । पुरस्तादुद्यते नीलवृषभश्च प्रशस्यते ॥ शुक्तिध्वजपताकाभा येषां राजी विराजते । अनड्वाहश्च ते धन्या वित्तसिद्धिजयावहाः ॥ प्रदक्षिणं निवर्त्तन्ते स्वयं ये विनिवर्त्तिताः । समुन्नतशिरोग्रीवा धन्यास्ते यूथवर्द्धनाः ॥ रक्तशृङ्गाग्रनयनः श्वेतवर्णो भवेद्यदि । सफैः प्रबालसदृशैर्नास्ति धन्यतरस्ततः ॥ एते धार्य्याः प्रयत्नेन मोक्तव्या यदि वा वृषाः । धारिता यदि वा मुक्ता धनधान्यविवर्द्धनाः ॥ चरणानि मुखं पुच्छं यस्य श्वेतानि गोपतेः । लाक्षारससवर्णाश्च तन्नीलमिति निर्द्दिशेत् ॥ वृष एव स मोक्तव्यो न स धार्य्यो गृहे भवेत् । तदर्थमेवाचरति लोके गाथा पुरातनी ॥ एष्टव्या बहवः पुत्त्रा यद्येकोऽपि गयां व्रजेत् । गौरीं वाप्युद्वहेद्भार्य्यां नीलं वा वृषमुत्सृजेत् ॥ एवं वृषं लक्षणसंप्रयुक्तं गृहोद्भवं क्रीतमथापि राजन् । मुक्त्वा न शोचेन्मरणं महात्मा मोक्षे मतिञ्चाहमतोऽभिधास्ये ॥” इति मात्स्ये वृषभलक्षणं नाम १८१ अध्यायः ॥ जलपानार्थमागतवृषस्य निवारणे दोषो यथा, “गवां तृष्णाभिभूतानां पानार्थमभिधावताम् । अन्तरायो भवेद्यस्तु स भवेद्ब्रह्मघातकः ॥” इति कर्म्मलोचनम् ॥ * ॥
अस्य दानविधिर्यथा, — वशिष्ठ उवाच । “यथेश्वरो दरिद्रो वा करोति विधिना नृप । दानं सर्व्वगुणोपेतं तच्छृणुष्व यथातथम् ॥ भारादित्रिपलान्तञ्च वृषं कृत्वा विधानतः । युतं धेन्वाथवा दद्याच्छक्तितो नृपसत्तम ॥ यन्मया धेनवः प्रोक्ता वृषास्तावन्त एव हि । हरावेते नियोज्याः स्युर्हराय च तथा वृषाः ॥ सर्व्वाभावात्ततो राजन् तिलपात्राणि नित्यशः । सर्व्वपापविनाशाय दीयन्ते नृपसत्तम ॥ गोमयेन समालिप्य यववस्त्रसमावृते । वृषं हेममयं तत्र रौप्यं वा रत्नसंयुतम् ॥ तस्य नीलमयैः शृङ्गैर्मौक्तिकाक्षिण्यथो रदाः । द्वात्रिंशच्छुभवज्राणि विद्रुमौष्ठौ सुनासिका ॥ मारकती विनिर्द्दिष्टा कर्णौ चैवास्मकौ मतौ । पद्मरागस्य वै पादाः खुरा रौप्यमयास्तथा ॥ राजतान्यस्य रोमाणि क्षौमवस्त्रेण कम्बलम् । पट्टेन पुच्छमुद्दिष्टं सर्वेषामप्ययं विधिः ॥ वृषणौ स्फटिकस्यापि लिङ्गे मणिः प्रकीर्त्तितः । यथा धेनुस्तथानड्वान् सुवर्णस्य तु कारयेत् ॥ सर्व्वासां फलमाप्नोति धेनूनां वृषभप्रदः । राज्ञः स विभवाद्दानं भक्त्या यः प्रतिपादयेत् ॥ वृषभस्याप्यशक्तौ हि तदनन्तफलं स्मृतम् । निःस्वो वाप्येवमेवं हि कृत्वा व्रतमतन्द्रितः । तत्फलं समवाप्नोति स्वल्पदानान्न संशयः ॥” इति वह्निपुराणे वृषदानाध्यायः ॥ * ॥
तद्दानफलं यथा, —
“कन्यादानं वृषोत्सर्गं तीर्थसेवां श्रुतं तथा । ये कुर्व्वन्ति गृहस्थास्तु न ते तद्बिषयोपगाः ॥” इति तत्रैव कन्यादाननामाध्यायः ॥ * ॥
अपि च । ब्रह्मोवाच । “वृषगावौ समादाय युवानौ लक्षणान्वितौ । हेमशृङ्गौ शफे रौप्ये सवस्त्रौ पूजयेन्मुने ! ॥ शिवोमां पूजयित्वा तु तद्दिने यः प्रयच्छति । शिवभक्ताय विप्राय रोहिण्यां वा मृगेण वा ॥ न वियोगो भवेत्तस्य सुतपत्नीपतेः कृतः । वातरंहसवैमानैर्गच्छेच्छिवपुरं द्बिज ॥ तत्र भोगांश्चिरं भुक्त्वा इह आगत्य जायते । समृद्धौ धनधान्याभ्यां पुत्त्रमित्रसमाकुलः ॥ यो वा रत्नसमायुक्तं गोयुगं पूजयेन्मुने । प्रयच्छति शिवोमा च प्रीयेतां भावितात्मनः ॥ स सर्व्वपापदुःखाभ्यां विमुक्तः क्रीडते सदा । इह लोके भवेद्धन्यो देहान्ते परमं पदम् ॥” इति देवीपुराणे गोरत्नव्रतनामाध्यायः ॥ * ॥
शिववृषकारणं यथा, — श्रीकृष्ण उवाच । “अथ गर्व्वान्वितो रुद्रो हन्तुं त्रिपुरमुल्वणम् । मत्वा मनसि संहर्त्ता सर्व्वेषां जगतामिति । कोऽयं पतङ्गवद्दैत्य इति मत्वा ययौ रणम् । विहाय शूलं मद्दत्तं मदीयं कवचं परम् ॥ चिरं बभूव समरं वर्षमेकं दिवानिशम् । न कोऽपि जेतुं कं शक्तो द्वौ समौ समरे सदा ॥ पृथिव्याञ्च रणं कृत्वा दैत्येन्द्रो मायया प्रिये । अत्यूर्द्ध्वञ्च समुत्तस्थौ पञ्चाशत्कोटियोजनम् ॥ उत्तस्थौ शङ्करस्तूर्णं हन्तुं दैत्यं जगत्प्रभुः । जघान मुष्टिना रुद्रो दानवेन्द्रं प्रकोपतः ॥ वज्रमुष्टिप्रहारेण सद्यो मूर्च्छामवाप सः । क्षणेन चेतनां प्राप्य कोपाद्दानवपुङ्गवः । शिवं सयानमुत्तोल्य पातयामास भूतले ॥ तदाहं कलया शीघ्रं वृषरूपं विधाय च । सयानं शङ्करं धृत्वा विषाणाभ्यामुरुक्रमम् । ददौ तस्मै स्वकवचं स्वशूलमरिमर्द्दनम् ॥ मया दत्तेन शूलेन जघान त्रिपुरं हरः । मामेव दर्पहन्तारं तुष्टाव व्रीडितः पुनः ॥ तत्याज शङ्करो दर्पं विघ्नबीजं ततो विभुः । ज्ञानानन्दस्वरूपश्च निर्लिप्तः सर्व्वकर्म्मसु ॥ ततोऽहं वृषरूपेण वहामि तेन तं प्रियम् । मम प्रियतमो नास्ति त्रैलोक्येषु शिवात् परः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ३६ अध्यायः ॥ मेषादिद्वादशराश्यन्तर्गतद्वितीयराशिः । तत्प- र्य्यायः । तावुरिः २ । अस्य विशेषसंज्ञा । सौम्यः । अङ्गना । युग्मम् । समः । स्थिरः । पुष्करः । अयं चतुष्पात् । निशासु ग्राम्यः । दिवा वन्यः । ह्रस्वाख्यः । दक्षिणदिक्पतिः । निशाख्यः । पृष्ठोदयाख्यः । अस्याधिष्ठात्री देवता वृषः । कृत्तिकापादत्रयरोहिणीसमुदायमृगशि- रोऽर्द्धेनैतद्राशिर्भवति । स च शीलस्वभावः । सुन्दरभूमिस्वामी । वातप्रकृतिः । श्वेतवर्णः । वैश्यजातिः । महाशब्दकरः । मध्यमस्त्रीसङ्गः । मध्यमसन्तानश्च । एतद्राशिजात एतादृग्- भवति । दाता । वाग्दुःस्वरः । निर्भयः । पर- दाराभिलाषी । इति बृहज्जातकादयः ॥ * ॥
एतद्राशिजातफलम् । “स्थिरमतिं सुमतिं कमनीयतां कुशलतां हि नृणामुपभोगताम् । वृषगतो हिमगुर्भृशमादिशेत् सुकृतिनः कृतिनश्च सुखान्यपि ॥” * ॥
तल्लग्नजातफलम् । “वृषलग्ने भवेज्जातो गुरुभक्तः प्रियंवदः । गुणी कृती धनी लुब्धः शूरः सर्व्वजनप्रियः ॥” इति कोष्ठीप्रदीपः ॥ * ॥
चतुर्व्विधपुरुषमध्ये पुरुषविशेषः । (यथा, —
“पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी तथा । शशो मृगो वृषोऽश्वश्च स्त्रीपुसोर्जातिलक्षणम् ॥” इति रतिमञ्जरी ॥)
तस्य लक्षणं यथा, —
“बहुगुणबहुबन्धः शीघ्रकामो नताङ्गः सकलरुचिरदेहः सत्यवादी वृषोऽयम् ॥” इति च रतिमञ्जरी ॥ * ॥
एकादशमन्वन्तरीयेन्द्रः । यथा, —
“रुद्रपुत्त्रस्य ते पुत्त्रान् वक्ष्याम्येकादशस्य तु । सर्व्वत्रगः सुशर्म्मा च देवानीकः पुरुर्गुरुः ॥ क्षत्त्रबद्धा दृढायुश्च आर्द्रकः पुत्त्रकस्तथा । विहङ्गमाः कामगमा निर्म्माणरुचयस्तथा ॥ एकैकस्त्रिंशकस्तेषां गणाश्चेन्द्रश्च वै वृषः । दशग्रीवो रिपुस्तस्य स्त्रीरूपी घातयिष्यति ॥” इति गारुडे ८७ अध्यायः ॥ (कामान् वर्षतीति । वृष + कः ।)
धर्म्मः । (यथा, मनुः । ८ । १६ । “वृषो हि भगवान् धर्म्मस्तस्य यः कुरुते ह्यलम् । वृषलं तं विदुर्द्दवास्तस्याद्धर्म्मं न लोपयेत् ॥”)
शृङ्गी । उत्तरपदस्थश्चेत् श्रेष्ठः । (यथा, हरि- वंशे । १४१ । ३८ । “शारदं वर्षणं यद्बत् सहेद्बीरो गवांपतिः । तद्वद्यदुवृषः सेहे वाणवर्षमरिन्दमः ॥”)
मूषिकः । शुक्रलः । वास्तुस्थानभेदः । इति मेदिनी ॥ वासकः । इति विश्वः ॥ श्रीकृष्णः । इति त्रिकाण्डशेषः ॥ शत्रुः । इति जटाधरः ॥ कामः । बलवान् । इत्यनेकार्थकोषः ॥ ऋषभ- नामौषधम् । इति राजनिर्घण्टः ॥ (पतिः । यथा, काशीखण्डे । “स्ववृषं या परित्यज्य परवृषे वृषायते । वृषली सा हि विज्ञेया न शूद्री वृषली भवेत् ॥”)



Correction: