वाचस्पत्यम्
वृहज्जीवन्ती is an alternate of बृहज्जीवन्ती. बृ(वृ)हज्जीवन्ती || स्त्री कर्म० । महाजीवन्त्याम् राजनि० ।
शब्दकल्पद्रुमः
वृ(बृ)हज्जीवन्ती || स्त्री वृहज्जीवन्तिकावृक्षः । तत्पर्य्यायः । पत्रभद्रा २ प्रियङ्करी ३ मधुरा ४ जीवपुष्टा ५ बृहज्जीवा ६ यशस्करी ७ । अस्या गुणाः । बहुवीर्य्यदातृत्वम् । भूतविद्रावणत्वम् । वेगाद्रसनियामकञ्च । इति राजनिर्घण्टः ॥