वाचस्पत्यम्
वृंहित || न० वृहि—क्त । करिगर्जने अमरः ।
शब्दकल्पद्रुमः
वृंहितं || क्ली (वृहि + क्तः ।)
हस्तिगर्ज्जनम् । तत्पर्य्यायः । करिगर्ज्जितम् २ । इत्यमरः ॥ (यथा, महाभारते । ६ । १८ । २ । “शङ्खदुन्दुभिघोषैश्च वारणानाञ्च वृंहितैः । नेमिघोषै रथानाञ्च दीर्य्यतीव वसुन्धरा ॥”)