संस्कृत-शब्दकोशः

वेगित वेगिहरिण

वेगिन्

वाचस्पत्यम्

वेगिन् ||‍ पु० वेग + अस्त्यर्थे इनि । १ श्येनविहगे राजनि० । २ वेगवति त्रि० अमरः स्त्रियां ङीप् ।


शब्दकल्पद्रुमः

वेगी || [न्] त्रि, (वेगोऽस्यास्तीति । वेग + इनिः ।)
वेगवान् । तत्पर्य्यायः । जङ्घाकारिकः २ जाङ्घिकः ३ तरस्वी ४ त्वरितः ५ प्रजवी ६ जवनः ७ जवः ८ । इत्यमरः ॥ (यथा, हरिवंशे भविष्यपर्व्वणि । २० । १४ । “अश्वाश्च वेगिनः सन्ति रथा वायुजवा मम ॥”)
श्येनपक्षी । इति राजनिर्घण्टः ॥



Correction: