वाचस्पत्यम्
वेणुयव || पु० वेणुजातो यव इव । १ वंशजाते २ तण्डुलाकारे पदार्थे राजनि० ।
शब्दकल्पद्रुमः
वेणुयवः || पुं, (वेणोर्यवः ।)
वंशफलम् । वाँशेर चाउल इति भाषा ॥ (यथा, विष्णुपुराणे । १६ । २५ । “तथा वेणुयवाः प्रोक्तास्तद्वन् मर्कटका मुने ॥”)
तत्पर्य्यायः । वेणुजः २ वेणुबीजम् ३ वंशजः ४ वंशतण्डुलः ५ वंशधान्यम् ६ वंशाह्वः ७ । अस्य गुणाः । रूक्षत्वम् । कषायत्वम् । कटुपाकित्वम् । बद्धमूत्रत्वम् । कफघ्नत्वम् । वातपित्तकरत्वम् । सारकत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “तद्यवास्तु सरा रूक्षाः कषायाः कटुपाकिनः । वातपित्तकरा उष्णा बद्धमूत्राः कफापहाः ॥” इति भावप्रकाशः ॥