संस्कृत-शब्दकोशः

वेतस्वत् वेतालभट्ट

वेताल

वाचस्पत्यम्

वेताल ||‍ पु० अज—विच् वीभावः तल—घञ् कर्म० । १ मल्लवि- शेषे २ भूताधिष्ठितशवभेदे अमरः ३ शिवानुचरे भैरवभेदे कालिकापु० । ४ द्वारपाले च शब्दर० ।


शब्दकल्पद्रुमः

वेतालः || पुं, द्वारपालकः । इति शब्दरत्नावली ॥ भूताधिष्ठितशवः । इत्यमरः ॥ मल्लभेदः । इति भरतः ॥ शिवगणाधिपविशेषः । यथा, — सगर उवाच । “कोऽसौ भैरवनामाभूत् को वा वेतालसंज्ञकः । कथं वा तौ शरीरेण मानुषेण गणाधिपौ । अभूतां द्विजशार्द्दूल तन्मे वद महामुने ॥ श्रीऔर्व्व उवाच । शृणु राजन् प्रवक्ष्यामि महाकालस्य भृङ्गिणः । भैरवस्यापि चरितं वेतालस्य महात्मनः ॥ सोऽसौ भृङ्गी हरसुतौ महाकालोऽपि भर्गजः । तावेव गौरीशापेन संभूय नरयोनिजौ । वेतालभैरवौ जातौ पृथिव्यां नृपवेश्मनि ॥” इति कालिकापुराणे ४५ अध्यायः ॥ तस्योत्पत्त्यादि यथा, — श्रीदेव्युवाच । “ममैव मानुषी मूर्त्तिरियं वृषभकेतन ! । विशामि तेऽत्र वचनादुत्पादय सुतद्वयम् ॥ प्रविवेश ततो देवी स्वयं तारावतीतनौ । महादेवोऽपि तस्यास्तु कामार्थं समुपस्थितः ॥ ततः सापर्णयाविष्टा देवी तारावती सती । कामयानं महादेवं स्वयमेवाभवन्मुदा ॥ तस्मिन् कालेऽभवद्गर्भः कापाली चास्थिमाल्य- धृक् । कामावसाने तस्यास्तु सद्यो जातं सुतद्वयम् ॥ अभवन्नृपशार्दूल तथा शाखामृगाननम् । अथ तारावती देवी सुतौ दृष्ट्वा क्षितिस्थितौ ॥ भूमौ मलिनवेशेन मन्युना समुपार्विशत् । भर्त्तुरागमनं शश्वत् काङ्क्षन्ती भर्गभाषितम् ॥ अथ क्षणान्महाभागः स राजा चन्द्रशेखरः । प्रासादपृष्ठे आगच्छद्द्रष्टुं तारावतीं तदा ॥ ददर्श पतितां भूमौ मुक्तकेशीं निरुत्सवाम् । सुतौ च पतितौ भूमौ चन्द्रसूर्य्यसमप्रभौ ॥ वानरास्यौ स ददृशे पदक्षोभं वृषस्य च । ततः स राजा न्यगदत् तं मुनिं प्रहसन्मुदा ॥ पालयिष्ये शम्भुसुतौ यथा लभ्यं सदैव हि । किन्त्वेतौ मुनिशार्दूल त्वं संस्कुरु यथाविधि ॥ और्व्व उवाच । ततस्तयोर्नाम चक्रे नारदो वचनान्नृप । ज्येष्ठो भैरवनामाभूत् वीरः पुत्त्रो भयङ्करः ॥ वेतालसदृशः कृष्णो वेतालोऽभूत्तथापरः । इति चक्रे तयोर्नाम देवर्षिर्ब्रह्मणः सुतः ॥” इति कालिकापुराणे ४९ अध्यायः ॥



Correction: