वाचस्पत्यम्
वेदगर्भ || पु० वेदोगर्भे यस्य । सर्ववेदस्य प्रथमं स्मर्त्तरि १ हि- रण्यगर्भे २ विप्रे च हेमच० । ३ विष्णौ विष्णुस० ।
शब्दकल्पद्रुमः
वेदगर्भः || पुं, (वेदा गर्भे अन्तरे यस्य ।)
ब्रह्मा । (यथा, भागवते । २ । ४ । २४ । “एतदेवात्मभू राजन् नारदाय विपृच्छते । वेदगर्भोऽभ्यधात् साक्षाद्यदाह हरिरात्मनः ॥”)
ब्राह्मणः । इति हेमचन्द्रः ॥