वाचस्पत्यम्
वेदाङ्ग || न० वेदस्याङ्गमिव । “शिक्षा कल्पो व्याकरणं नि- रुक्तं छन्दसां चयः । ज्योतिषामयनञ्चैव वेदाङ्गानि षडेव तु” इत्युक्तेषु शिक्षादिषु षट्सु शास्त्रेषु । तेषाम- ङ्गविशेषरूपत्वं शिक्षायामुक्तं यथा “छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते । ज्यो- तिषामयमं चक्षुर्निरुक्तं श्रोत्रमुच्यते । शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् । तस्मात् साङ्गमधीत्यैव ब्रह्मलोके महीयते” ।
शब्दकल्पद्रुमः
वेदाङ्गं || क्लो, (वेदस्य अङ्गम् ।)
श्रुत्यवयवषट्- प्रकारशास्त्रम् । तद्यथा । शिक्षा १ कल्पः २ व्याकरणम् ३ निरुक्तम् ४ ज्योतिषम् ५ छन्दः ६ । यदुक्तम् । “शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषां गणः । छन्दोविचितिरित्येतैः षडङ्गो वेद उच्यते ॥” इति ॥ तत्र अकारादिवर्णानां स्थूलकरणप्रयत्नबोधिका अकु ए ह विसर्ज्जनीयाः कण्ठ्या इत्यादिका शिक्षा । यागक्रियाणामुपदेशः कल्पः । साधु- शब्दान्वाख्यानं व्याकरणम् । वर्णागमो वर्ण- विपर्य्ययश्च इत्यादिना निश्चयेनोक्तं निरुक्तम् । ग्रहणादिगणनशास्त्रं ज्योतिः । श्रुतिच्छन्दसां प्रत्यायकं शास्त्रं छन्दोविचितिः । इत्यमर- भरतौ ॥ (यथा, मनुः । ४ । ९८ । “वेदाङ्गानि च सर्व्वाणि कृष्णपक्षेषु सम्पठेत् ॥”)