संस्कृत-शब्दकोशः

वेदान्तिन् वेदार

वेदाभ्यास

वाचस्पत्यम्

वेदाभ्यास ||‍ पु० ६ त० । “वेदस्वीकरणं पूर्बं विचारोऽभ्यसनं जपः । तद्दानञ्चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा” इत्युक्तेषु वेदपाठविचारानुशीलनतन्मन्त्रजपपाठनेषु ।


शब्दकल्पद्रुमः

वेदाभ्यासः || पुं, (वेदस्य अभ्यासः ।)
वेदानुशील- नम् । स च पञ्चविधः । यथा, दक्षः । “द्वितीये च तथा भागे वेदाभ्यासो विधीयते । वेदाभ्यासो हि विप्राणां परमं तप उच्यते ॥ ब्रह्मयज्ञपरं ज्ञेयः षडङ्गसहितश्च यः । वेदस्वीकरणं पूर्व्वं विचारोऽभ्यसनं जपः । तद्दानञ्चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥ शङ्खलिखितौ । न वेदमनधीत्यान्यां विद्यामधी- यीतान्यत्र वेदाङ्गस्मृतिभ्यः ॥” इत्याह्रिकतत्त्वम् ॥



Correction: